From memory · lines 25–37
Matches the 1906 print, p. 143–145. · Meanings: AI draft, editor review pending · 8 steps · 3 min
- विद्युदुद्योतवान्प्रस्फुरद्वाससं
- प्रावृडंभोदवत्प्रोल्लसद्विग्रहम्
- वन्यया मालया शोभितोरःस्थलं
- लोहितांघ्रिद्वयं वारिजाक्षं भजे
- कुंचितैः कुंतलैर्भ्राजमानाननं
- रत्नमौलिं लसत्कुंडलं गंडयोः
- हारकेयूरकं कंकणप्रोज्ज्वलं
- किंकिणीमंजुलं श्यामलं तं भजे
- अच्युतस्याष्टकं यः पठेदिष्टदं
- प्रेमतः प्रत्यहं पूरुषः सस्पृहम्
- वृत्ततः सुंदरं कर्तृविश्वंभरं
- तस्य वश्यो हरिर्जायते सत्वरम्
- इति श्रीशंकराचार्यविरचितं अच्युताष्टकं संपूर्णम्